📚 गीताविवृतिः (राघवेन्द्रतीर्थः) - अध्यायः ५
Page 1
Download 📥
________________ अर्जुन उवाच संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि । यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥५.१॥ ॐ ’योगस्थः' कुरु कर्माणि सङ्गं त्यक्त्वा (२.४७) इत्यादिना द्वितीये सङ्क्षेपेणोक्तस्य तृतीयादौ विशेषतः स्पष्टीकृतस्य फलकामनादित्यागेनेश्वरार्पणबुद्ध्या वर्णाश्रमविहितकर्मानुष्ठानरूपस्य कर्मयोगस्य यदंशद्वयं कामादिवर्जेनरूपं उक्तरूपकर्मानुष्ठानाख्यं चेति तदंशद्वयरूपं तृतीयोक्तमत्राध्याये प्रपञ्च्यते ॥ संन्यासमिति । पूर्वाध्याये 'यदृच्छालाभसंतुष्ट (४.२२) इत्यादिना कामादिवर्जनरूपं संन्यासं ’कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतं' इत्यादिना (४.२२) वर्णाश्रमविहितकर्मणां योगं ईश्वरार्पणबुद्ध्यानुष्ठानरूपं कर्मयोगं च हे कृष्ण शंससि कथयसि । एतयोरुक्तलक्षणयोः संन्यासकर्मयोगयोः यच्छ्रेयः अधिकं भवति तदेकं मे मम सुनिश्चितं ब्रूहि । संन्यासस्याधिकत्वे तमेव ग्रही (हि) ष्यामि किं तद्विरोधिना कामद्वेषादियुतेन युद्धाख्यकर्मयोगेनेति भावः । यद्वा पूर्वत्र 'योगसंन्यस्तकर्माणं' (४.४१) इत्यादौ पठितः संन्यासशब्दो यत्याश्रमविषयः 'योगमातिष्ठ' (४.४२) इत्यादौ श्रुतो योगशब्दो गृहिविषय इति प्रकल्प यतीनां सर्वकर्मत्यागेन ज्ञानमात्राधिकारित्वात्, गृहिणां च ज्ञानत्यागेन कर्ममात्राधिकारित्वात्, तयोरेकपुन्निष्ठत्वं न युक्तमिति भावेन योगसंन्यास॒यो॒र्मध्ये यच्छ्रेयस्तदेकं ग्रहीष्यामीति भावेन तयोर्मध्ये श्रेयः पृच्छति ॥ संन्यासमिति । कर्मणां संन्यासं यत्याश्रमं 'संन्यस्तकर्माणं' (४.४१) इत्यनेन शंससि । पुनः कर्मणां योगमनुष्ठानलक्षणं गृहस्थाश्रमं च 'योगमातिष्ठोत्तिष्ठ' (४.४२) इत्यनेन शंससि । एतयोर्यत्याश्रमगृहस्थाश्रमयोः । शिष्टं प्राग्वत् । एतेनास्याध्यायस्य तृतीयोक्तकर्मयोगप्रपञ्चनपरत्वे (अस्याध्यायस्य) तदानंतर्य स्यादिति निरस्तम् । योजनाद्वयेऽपि पूर्वाध्यायोक्तोपजीवनेनैव प्रश्नस्योत्थानेन चतुर्थानंतर्यस्योचितत्वादिति ॥ ५.१॥ श्रीभगवानुवाच संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ । १